यत्रादित्या रुद्रा वसवश्च नासत्या विश्वे देवा हिताः ।
यत्रोषासानक्ता द्यावाक्षामा सूर्याचन्द्रमसा स्थिताः ॥
यस्मादृचः सामानि यजूंष्यथर्वाङ्गिरसश्च प्राजायन्त।
यतो गायत्री त्रिष्टुप्पङ्क्तिरनुष्टुब्बृहती जगत्युष्णिहा॥
यत्रोदानः प्राणापानौ व्यानः समानः समाहिताः।
यत्र ब्राह्मणा राजन्या वैश्याः शूद्राश्च प्रतिष्ठिताः॥
यत्रौङ्कारो हिङ्कारो वषट्कारश्च संहिताः ।
भूतं भवद्भविष्यच्च त्रयः कालाः संस्थिताः ॥
यत्र मन्त्रं स्तोत्रं होत्रं पोत्रं नेष्ट्रं प्रशास्त्रमध्याहितानि ।
यन्त्रं तन्त्रं क्षत्रं राष्ट्रं शास्त्रमस्त्रं शस्त्रमधिष्ठितानि॥
अहोरात्रावेकरात्रो द्विरात्रस्त्रिरात्रश्चतूरात्र आहिताः।
अतिरात्रः पञ्चरात्रः षड्रात्रः सप्तरात्र आश्रिताः ॥